index
int64 0
73.8k
| text
stringlengths 8
2.93k
|
|---|---|
0
|
आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ।
पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ।
व्यास उवाच ।
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ।
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १ ॥
|
1
|
मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे ॥ २ ॥
|
2
|
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।
आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ॥ ३ ॥
|
3
|
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ।
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४ ॥
|
4
|
ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ।
सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ५ ॥
|
5
|
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ६ ॥
|
6
|
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ।
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७ ॥
|
7
|
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।
न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ ८ ॥
|
8
|
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।
कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ ९ ॥
|
9
|
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १० ॥
|
10
|
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।
तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११ ॥
|
11
|
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२ ॥
|
12
|
परापवादनिरताः परद्र व्याभिलाषिणः ।
परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३ ॥
|
13
|
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ।
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ १४ ॥
|
14
|
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १५ ॥
|
15
|
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ।
त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६ ॥
|
16
|
अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ।
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७ ॥
|
17
|
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।
असत्संगाः पापरता व्यभिचारपरायणाः ॥ १८ ॥
|
18
|
अशूरा अरणप्रीताः पलायनपरायणाः ।
कुचौरवृत्तयः शूद्रा ः कामकिंकरचेतसः ॥ १९ ॥
|
19
|
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।
शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ २० ॥
|
20
|
प्रजापालनसद्धर्मविहीना भोगतत्पराः ।
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१ ॥
|
21
|
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२ ॥
|
22
|
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३ ॥
|
23
|
कामिनीजारभावेषु सुरता मलिनाशयाः ।
लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ २४ ॥
|
24
|
तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ।
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५ ॥
|
25
|
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।
शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ २६ ॥
|
26
|
शालिग्रामशिलादीनां पूजकाहोमतत्पराः ।
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २७ ॥
|
27
|
धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ।
आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ २८ ॥
|
28
|
सुभूपाकृतयो दंभाः सुदातारो महामदाः ।
विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ २९ ॥
|
29
|
स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ।
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ३० ॥
|
30
|
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ।
सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ ३१ ॥
|
31
|
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।
श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ॥ ३२ ॥
|
32
|
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ।
जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३३ ॥
|
33
|
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३४ ॥
|
34
|
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।
परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ३५ ॥
|
35
|
इति चिंताकुलं चित्तं जायते सततं हि नः ।
परोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३६ ॥
|
36
|
लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।
सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥
|
37
|
व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३८ ॥
|
38
|
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥
|
39
|
सूत उवाच ।
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
|
40
|
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
|
41
|
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
|
42
|
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।
सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४ ॥
|
43
|
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५ ॥
|
44
|
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६ ॥
|
45
|
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७ ॥
|
46
|
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।
यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ८ ॥
|
47
|
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९ ॥
|
48
|
तावत्सर्वपुराणानि प्रगर्जंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १० ॥
|
49
|
तावत्सर्वाणि तीर्थानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११ ॥
|
50
|
तावत्सर्वाणि मंत्राणि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२ ॥
|
51
|
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३ ॥
|
52
|
तावत्सर्वाणि पीठानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४ ॥
|
53
|
तावत्सर्वाणि दानानि विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५ ॥
|
54
|
तावत्सर्वे च ते देवा विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६ ॥
|
55
|
तावत्सर्वे च सिद्धान्ता विवदंति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७ ॥
|
56
|
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८ ॥
|
57
|
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः ।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९ ॥
|
58
|
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च ।
यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ २० ॥
|
59
|
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः ।
यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ २१ ॥
|
60
|
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२ ॥
|
61
|
एतच्छिवपुराणं यस्साधारणपदेच्छया ।
अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् ॥ २३ ॥
|
62
|
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४ ॥
|
63
|
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५ ॥
|
64
|
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।
यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ २६ ॥
|
65
|
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७ ॥
|
66
|
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् ।
इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् ॥ २८ ॥
|
67
|
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९ ॥
|
68
|
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।
आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे ॥ ३० ॥
|
69
|
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।
तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१ ॥
|
70
|
एतच्छिवपुराणं हि गायते योप्यहर्निशम् ।
आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ॥ ३२ ॥
|
71
|
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३ ॥
|
72
|
समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् ।
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ॥ ३४ ॥
|
73
|
तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके ।
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ॥ ३५ ॥
|
74
|
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः ।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६ ॥
|
75
|
कैलाससंहिता तत्र ततोऽपि परमस्मृता ।
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७ ॥
|
76
|
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः ।
कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ ३८ ॥
|
77
|
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९ ॥
|
78
|
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४० ॥
|
79
|
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा ।
कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१ ॥
|
80
|
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२ ॥
|
81
|
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् ।
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३ ॥
|
82
|
शिवालये बिल्ववने संहितां तां पठेत्तु यः ।
स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ ४४ ॥
|
83
|
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् ।
तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ४५ ॥
|
84
|
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ।
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६ ॥
|
85
|
अन्यापि संहिता तत्र सर्वकामफलप्रदा ।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७ ॥
|
86
|
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् ।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ४८ ॥
|
87
|
विद्येशंच तथारौद्रं वैनायकमथौमिकम् ।
मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ॥ ४९ ॥
|
88
|
कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च ।
वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ ५० ॥
|
89
|
संहिता द्वादशमिता महापुण्यतरा मता ।
तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ५१ ॥
|
90
|
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२ ॥
|
91
|
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः ।
षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ॥ ५३ ॥
|
92
|
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।
सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ॥ ५४ ॥
|
93
|
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ।
तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ ५५ ॥
|
94
|
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६ ॥
|
95
|
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७ ॥
|
96
|
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ।
चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ ५८ ॥
|
97
|
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९ ॥
|
98
|
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।
तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका ॥ ६० ॥
|
99
|
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका ।
सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ६१ ॥
|
End of preview. Expand
in Data Studio
No dataset card yet
- Downloads last month
- 17